________________
सञ्जय उवाच
तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २.१॥
ॐ “ततः किं जातम” इति धृतराष्ट्रस्यापेक्षायां “सञ्जय उवाच” । तं तथेति । उक्तदिशा कृपयाऽऽविष्टमेवं विषण्णम् अर्जुनं “भगवानुवाच” “कुत” इत्यादिद्वाभ्यां श्लोकाभ्याम् ॥२.१॥
श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२.२॥
‘हे अर्जुन कुतो हेतोस्त्वा त्वां विषमे सङ्कटे इदं कश्मलम् उपस्थितम् । अयं मोहः प्राप्तः । यतः आर्यैरसेवितम् अस्वर्ग्य स्वर्गविरोधि अयशस्करं च ॥२.२॥
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २.३॥
तस्मात्क्लैब्यं कातर्य मास्मगमः नैव प्राप्नुहि । हे पार्थैतत्क्लैब्यं त्वयि नोपपद्यते योग्यं न भवति । क्षुद्रं लाघवकरं हृदयदौर्बल्यं
कातर्यं त्यक्त्वोत्तिष्ठ । उत्थाय सन्नद्धो भव । हे परन्तप परं शत्रुं तापयतीति शत्रुतापनः । ”द्विषत्परयोस्तापेः इति खचि खित्यनव्ययस्ये” ति मुमागमः ॥२.३॥
१